Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Siva Kruta Durga Stotram

शिवकृतं दुर्गास्तोत्रम् (Siva Kruta Durga Stotram) श्रीमहादेव उवाच रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि। मां भक्त मनुरक्तं च शत्रुग्रस्तं कृपामयि॥ विष्णुमाये महाभागे नारायणि सनातनि। ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी॥ त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके।...

Siva Prokta Surya Sthavarajam

శివప్రోక్త  సూర్య స్తవ రాజము (Siva Prokta Surya sthavarajam) ఓం నమో సహస్ర బాహవే ఆదిత్యాయ నమో నమః నమస్తే పద్మహస్తాయ వరుణాయ నమో నమః || నమస్తిమిర నాశాయ శ్రీ సూర్యయ నమో నమః | నమః సహస్ర...

Dasa Mahavidya Sthuthi

దశమహావిద్యా స్తుతి (Dasa Mahavidya Sthuthi ) మహా విద్యా మహా కాళి ప్రియ సఖి | గౌరీ కౌశికి నమః విఖ్యాతే నమో స్థుతే ||1|| ముండ మాలా విభూషితే నీల రూపిణీ | ఏకాజాత నీల సరస్వతి నమః...

Neela Kruta Hanuman Stotram

నీల కృత హనుమా స్తోత్రం  (Neela Kruta Hanuman Stotram) ఓం జయ జయ -శ్రీ ఆంజనేయ -కేసరీ ప్రియ నందన -వాయు కుమారా -ఈశ్వర పుత్ర -పార్వతీ గర్భ సంభూత -వానర నాయక -సకల వేద శాస్త్ర పార౦గ -సంజీవి...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!